|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.220. अध्यायः 220
Mahabharata - Adi Parva - Chapter Topics
धृतराष्ट्रदुर्योधनसंवादः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
`वैशम्पायन उवाच। 1-220-0x(1218)(9607)
दुर्योधनेनैवमुक्तः कर्णेन च विशांपते।
पुत्रं च सूतपुत्रं च धृतराष्ट्रोऽब्रवीदिदम्॥ ' 1-220-1(9608)
धृतराष्ट्र उवाच। 1-220-2x(1219)
अहमप्येवमेवैतच्चिकीर्षामि यथा युवाम्।
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति॥ 1-220-2(9609)
ततस्तेषां गुणानेव कीर्तयामि विशेषतः।
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः॥ 1-220-3(9610)
यच्च त्वं मन्यसे प्राप्तं तद्ब्रवीहि सुयोधन।
राधेय मन्यसे यच्च प्राप्तकालं वदाशु मे॥ 1-220-4(9611)
दुर्योधन उवाच। 1-220-5x(1220)
अद्य तान्कुशलैर्विप्रैः सुगुप्तैराप्तकारिभिः।
कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ॥ 1-220-5(9612)
अथवा द्रुपदो राजा महद्भिर्वित्तसंचयैः।
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः॥ 1-220-6(9613)
परित्यजेद्यथा राजा कुन्तीपुत्रं युधिष्ठिरम्।
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते॥ 1-220-7(9614)
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक्।
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः॥ 1-220-8(9615)
अथवा कुशळाः केचिदुपायनिपुणा नराः।
इतरेतरतः पार्थान्भेदयन्त्वनुरागतः॥ 1-220-9(9616)
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत्।
अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम्॥ 1-220-10(9617)
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः।
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः॥ 1-220-11(9618)
तमाश्रित्य हि कौन्तेयः पुरा चास्मान्न मन्यते।
सहि तीक्ष्णश्च शूरश्च तेषां चैव परायणम्॥ 1-220-12(9619)
तस्मिंस्त्वभिहते राजन्हतोत्साहा हतौजसः।
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः॥ 1-220-13(9620)
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे।
तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक्॥ 1-220-14(9621)
ते जानानास्तु दौर्बल्यं भीमसेनमृते महत्।
अस्मान्बलवतो ज्ञात्वा न यतिष्यन्ति दुर्बलाः॥ 1-220-15(9622)
इहागतेषु वा तेषु निदेशवशवर्तिषु।
प्रवर्तिष्यामहे राजन्यथाशास्त्रं निबर्हणम्॥ 1-220-16(9623)
`दर्पं वा वदतां तेषां केचिदत्र मनस्विनः।
द्रुपदस्यात्मजा राजन्प्रभिद्यन्ते ततः परैः॥' 1-220-17(9624)
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम्।
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम्॥ 1-220-18(9625)
प्रेष्यतां चैव राधेयस्तेषामागमनाय वै।
तैस्तैः प्रकारैः सन्नीय पात्यन्तामाप्तकारिभिः॥ 1-220-19(9626)
एतेषामप्युपायानां यस्ते निर्दोषवान्मतः।
तस्य यप्रोगमातिष्ठ पुरा कालोऽतिवर्तते॥ 1-220-20(9627)
यावद्ध्यकृतविश्वासा द्रुपदे पार्थिवर्षभे।
तावदेव हि ते शक्या न शक्यास्तु ततः परम्॥ 1-220-21(9628)
एषा मम मतिस्तात निग्रहाय प्रवर्तते।
साध्वी वा यदि वाऽसाध्वी किं वा राधेय मन्यसे॥ ॥ 1-220-22(9629)
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि विंशत्यधिकद्विशततमोऽध्यायः॥ 220 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-220-3 इङ्गितैश्चेष्टितैः॥ विंशत्यधिकद्विशततमोऽध्यायः॥ 220 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|